|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.91. अध्यायः 091
Mahabharata - Udyoga Parva - Chapter Topics
दुर्योधनेन स्वगृहमागतस्य श्रीकृष्णस्य पूजापूर्वकं भोजनायामन्त्रणम् ॥ 1 ॥ दुर्योधनेन श्रीकृष्णंप्रति स्वीयान्नपानाद्य नादरणकारणप्रश्ने कृष्णेन तत्कथनपूर्वकं विदुरगृहगमनम् ॥ 2 ॥ विदुरेण सादरमन्नपानादिना श्रीकृष्णाराधनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-91-0x(3661)(35007)
पृथामामन्त्र्य गोविन्दः कृत्वा चाभिप्रदक्षिणम् ।
दुर्योधनगृहं शौरिरभ्यगच्छदरिन्दमः ॥ 5-91-1(35008)
लक्ष्म्या परमया युक्तं पुरन्दरगृहोपमम् ।
विचित्रैरासनैर्युक्तं प्रविवेश जनार्दनः ॥ 5-91-2(35009)
तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः ।
ततोऽभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम् ॥ 5-91-3(35010)
श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः ।
तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम् ॥ 5-91-4(35011)
धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने ।
दुःशासनं च कर्णं च शकुनिं चापि सौबलम् ॥ 5-91-5(35012)
दुर्योधनसमीपे तानासनस्थान्ददर्श सः।
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः ॥ 5-91-6(35013)
उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम् ।
समेत्य धार्तराष्ट्रेण महामात्येन केशवः ॥ 5-91-7(35014)
राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः ।
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् ॥ 5-91-8(35015)
विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः ।
तस्मिन्गां मधुपर्कं चाप्युदकं च जनार्दने ॥ 5-91-9(35016)
निवेदयामास तदा गृहान्राज्यं च कौरवः । 5-91-10b` आसनं सर्वतोभद्रं सर्वरत्नविभूषितम् ॥ 5-91-10(35017)
कृष्णार्थमेवं संसिद्धं धार्तराष्ट्रस्य शासनात्।'
तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् ॥ 5-91-11(35018)
उपासाञ्चक्रिरे सर्वे कुरवो राजभिः सह।
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् ॥ 5-91-12(35019)
न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः ।
ततो दुर्योधनः कृष्णमब्रवीत्कुरुसंसदि ॥ 5-91-13(35020)
मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः ।
कस्मादन्नानि पापानि वासांसि शयनानि च ॥ 5-91-14(35021)
त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन ।
उभयोश्च ददत्साह्यमुभयोश्च हिते रतः ॥ 5-91-15(35022)
संबन्धी दयितश्चासि धृतराष्ट्रस्य माधव ।
त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः ।
तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर ॥ 5-91-16(35023)
वैशम्पायन उवाच। 5-91-17x(3662)
स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः ।
उद्यन्मेघस्वनःक काले प्रगृह्य विपुलं भुजम् ॥ 5-91-17(35024)
अलघूकृतमग्रस्तमनिरस्तमसंकुलम् ।
राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम् ॥ 5-91-18(35025)
कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव ह।
कृतर्थं मां सहामात्यं समर्चिष्यसि भारत ॥ 5-91-19(35026)
एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् ।
न युक्तं भवताऽस्मासु प्रतिपत्तुमसांप्तम् ॥ 5-91-20(35027)
कृतार्थं वाऽकृतार्थं वा त्वां वयं मधुसूदन।
यतामहे पूजयितुं दाशार्ह न च शक्नुमः ॥ 5-91-21(35028)
न च तत्कारणं विद्मो यस्मान्नो मधुसूदन ।
पूजां कृतां प्रीयमाणो नामंस्थाः पुरुषोत्तम ॥ 5-91-22(35029)
वैरं नो नास्ति भवता गोविन्द न च विग्रहः ।
स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति ॥ 5-91-23(35030)
वैशम्पायन उवाच। 5-91-24x(3663)
एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः।
अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव ॥ 5-91-24(35031)
नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात् ।
न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथंचन ॥ 5-91-25(35032)
संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः ।
न च संप्रीयते राजन्न चैवापद्गता वयम् ॥ 5-91-26(35033)
`द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत् ।
पाण्डवान्द्विषसे राजन्मम प्राणा हि पाण्डवाः ॥' 5-91-27(35034)
अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान् ।
प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः ॥ 5-91-28(35035)
अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते।
धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति ॥ 5-91-29(35036)
यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु समामनु ।
ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः ॥ 5-91-30(35037)
कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सति।
गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् ॥ 5-91-31(35038)
यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते ।
सोजितात्माऽजितक्रोधो न चिरं तिष्ठति श्रिया ॥ 5-91-32(35039)
अथ यो गुणसंपन्नान्हृदयस्याप्रियानपि।
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥ 5-91-33(35040)
सर्वमेतन्न भोक्तव्यमन्नं दुष्टाभिसंहितम्।
क्षुत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः ॥ 5-91-34(35041)
एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् ।
निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात् ॥ 5-91-35(35042)
निर्याय च महाबाहुर्वासुदेवो महामनाः ।
निवेशाय ययौ वेश्य विदुरस्य महात्मनः ॥ 5-91-36(35043)
तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः ।
कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् ॥ 5-91-37(35044)
त ऊचुर्माधवं वीरं कुरवो मधुसूदनम् ।
निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् ॥ 5-91-38(35045)
तानुवाच महातेजाः कौरवान्मधुसूदनः ।
सर्वे भवन्ते गच्छन्तु सर्वा मेऽपचितिः कृता ॥ 5-91-39(35046)
वैशम्पायन उवाच। 5-91-40x(3664)
यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम्।
अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् ॥ 5-91-40(35047)
ततः क्षत्राऽन्नपानानि शुचीनि गुणवन्ति च।
उपाहरदनेकानि केशवाय महात्मने ॥ 5-91-41(35048)
तैतर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः ।
वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि ॥ 5-91-42(35049)
`भुक्तवत्सु द्विजाग्र्येषु निषण्णेषु वरासने ।
शुचिः सुप्रयतो भून्वा विदुरोऽन्नमुपारत् ॥ 5-91-43(35050)
श्रद्धया परया युक्त इदं वचनमब्रवीत्।
संवृतैस्तुष्य गोविन्द एतन्नः धनम्।
अन्यथा हि विशेषेण कस्त्वामर्चितुमर्हति ॥ 5-91-44(35051)
वैशम्पायन उवाच। 5-91-45x(3665)
ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः।
विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च ॥ 5-91-45(35052)
तं भुक्तवन्तं विविधाः सुशब्दाः सूतमागधाः ।
अभितुष्टुवुरासीनं दाशार्हमपराजितम् ॥ ॥ 5-91-46(35053)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकनवतितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-91-14 शठोदर्कं शाठ्यपर्यवसानम्। आभाष्य संबोधनोनोन्मुखीकृत्य । 5-91-17 प्रगृह्य उद्यम्य ॥ 5-91-25 संरम्भात् क्रोधात्। हेतुवादात् कपटात् ॥ 5-91-31 विरुरुत्सति विरोधं कर्तुमिच्छति ॥ 5-91-44 संवृतैः राजानर्हतया गोपितैः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|